📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः ४
Page 1
Download 📥
________________ श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४.१॥ ॥ ॐ ॥ पूर्वाध्याये 'नियतं कुरुकर्मत्वं' (३.८) इत्यादिना किञ्चिद्विवृतस्य निवृत्तकर्मणः तथा 'यो बुद्धेः परतस्तु स' (३.४२) इत्यादिना तारतम्यान्तगत्वेनोक्तविष्णोस्तज्ज्ञानस्य च विस्तरेण निरूपणमत्राध्याये क्रियते । " एवं ज्ञात्वा कृतं कर्म” (४.१५) इत्यतः प्राक्तनग्रन्थेन बुद्धेः परस्य विष्णोर्माहात्म्यमुच्यते । 'श्रेयान्द्रव्यमयाद्यज्ञात्' (४.३३) इत्यतः पूर्वेण निवृत्तस्य कर्मणोऽन्यस्माद्भेदः, निवृत्तकर्मण्येवोपासनायज्ञादिरूपेण भेद इत्येवं कर्मविस्तारोक्तिः । शेषेण ज्ञानमाहात्म्योक्तिरिति विवेकः । मयि सर्वाणि' (३.३०) इत्युक्तनिवृत्तकर्मलक्षणज्ञानोपायानुष्ठानाननुष्ठानाभ्यां 'ये मे मतं' (३.३१) इत्यादिनाऽर्थानर्थयोरुक्त्या अवश्यमनुष्ठेयमित्युक्तम् । पुनस्तदनुष्ठाने रुच्युत्पादनाय पूर्वानुष्ठितश्चायं धर्म इत्याह ॥ इममित्यादित्रयेण । अव्ययफलत्वादव्ययम् । इमं योगं 'मयि सर्वाणि' (३.३०) इत्यनेनोक्तम् । निवृत्तकर्मलक्षणं ज्ञानोपायं विवस्वते आदित्याय । स च स्वपुत्राय मनवे श्राद्धदेवाय स च मनुः स्वपुत्रायेक्ष्वाकवे ॥४.१॥ एवं पर॒म्पराप्राप्तमिमं राजर्षयो विदुः । सं कालेनेह महता योगो नष्टः परन्तप ॥ ४.२॥ राजानश्च ऋषयश्चेति वा, राजर्षयो राजश्रेष्ठाः निमिप्रभृतयः स्वपित्रिक्ष्वाकुप्रभृतिभिर्विदुरिति वा । अत्र प्रवचनवेदनशब्दैः विवस्वदादीनामनुष्ठानमप्युपलक्ष्यम् । अद्यतनानामज्ञाने कारणमाह ॥ सइति । हे परंतप शत्रुतापन स च योगः महता कालेन इह लोके नष्टः अदर्शनं गतः ॥४.२॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४.३ ॥ कुतः प्रोक्त इत्यत उक्तम् ॥ भक्तोऽसीत्यादि । हि शब्दो हेतोः । भक्तत्वादिहेतुना हि यतस्ते प्रोक्तोऽत एतद्रहस्यं उत्तमं चेति । हि यतो रहस्यं उत्तमं चातो भक्तत्वाते प्रोक्तः अवश्यानुष्ठानायेति वा । 'कर्मणैव हि संसिद्धिं' (३.२०) इत्यत्र १